दक्षिणकालीस्तोत्रम्

Image: 

नीलोत्पलदलप्रख्यां शत्रुसङ्घविदारिणीम् ।
नरमुण्डन्तथा खड्गङ्कमलं वरदन्तथा ॥२॥
विभ्राणं रक्तवदनां दंष्ट्राली घोररूपिणीम् ।
अट्टाट्टहासनिरता सर्वदा च दिगम्बराम् ॥३॥
शवासनस्थितां देवीं मुण्डमालाविभूषिताम् ।
इति ध्यात्वा महादेवी ततस्तु हृदयं पठेत् ॥४॥
काली दक्षिणकाली च कृष्णरूपा परात्मिका ।
मुण्डमाली विशालाक्षी सृष्टिसंहासकारिका ॥५॥
स्थितिरूपा महामाया योगनिरद्रा भवात्मिका ।
भगसर्पि: पानरता भगोद्योता भगाङ्गजा ॥६॥
आद्या सदा नवा घोरा महातेजा: करालिका ।
प्रेतवाहा सिद्धिलक्ष्मीरनिरुद्धा सरस्वती ॥७॥
एतानि नाममाल्यानि ये पठन्ति दिने दिने ।
तेषा दासस्य दासोsहं सत्यं सत्यं महेश्वरि ॥८॥
त्वं काली त्वञ्य तारा त्वमसि गिरिसुता सुन्दरी
भैरबी त्वम्
त्वं दुर्गा छिन्नमस्ता त्वमसि च भुवना त्वं हि
लक्ष्मी: शिवा त्वम् ।
धूमा मताङगिनि त्वं त्वससी च बगलामङ्गलादिस्त
वाख्या
क्षन्तव्यो मेsपराध: पकटितवदने कामरूपे कराले ॥९॥
ब्रह्माणी कमलेन्दु सौम्यवदना माहेश्वरी लीलया
कौमारी रिपुदर्पनाशनकरी चक्रायुधा वैष्णवी ।
वाराही घनघोरघर्घरमुखी चैन्द्री च वज्रायुधा
चामुण्डा गणनाथभैरवगणा रक्षन्तु मे मातर: ॥१०॥
॥ इति श्रीदक्षिणकालीस्तोत्रम् सम्पूर्णम् ॥